пятница, 17 апреля 2015 г.

श्रीवेङ्कटेश प्रपत्तिः (shrIve~NkaTesha prapattiH)

Thanks very much to http://prapatti.com/ and the greatest gratitudes to this site Owners, because the following Unicode variant is based on the  Sanskrit version from http://prapatti.com/ 

श्रीः
श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी |
वेदान्ताचार्यवर्यो मे सन्निधतां सदा हृदि ॥

श्रीः
श्रीमतेरामानुजाय नमः
श्रीमते निगमान्तमहादेशिकाय नमः

। । श्रीवेङ्कटेश प्रपत्तिः । ।

ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णो: परां प्रेयसीं

तद्वक्षस्स्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् ।

पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं
वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् । । १ । ।

श्रीमन् कृपाजलनिधे कृतसर्वलोक
सर्वज्ञ शक्त नतवत्सल सर्वशेषिन् ।
स्वामिन् सुशील सुलभाश्रितपारिजात
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये । । २। ।

आनूपुरार्पितसुजातसुगन्धिपुष्प
सौरभ्यसौरभकरौ समसन्निवेशौ ।
सौम्यौ सदाऽनुभवनेऽपि नवानुभाव्यौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये । । ३। ।

सद्योविकासिसमुदित्वरसान्द्रराग
सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम् ।
सम्यक्षु साहसपदेषु विलेखयन्तौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये । । ४ । ।

रेखामयध्वजसुधाकलशातपत्र
वज्राङ्कुशाम्बुरुहकल्पकशङ्खचक्रै : ।
भव्यैरलङ्कृततलौ परतत्त्वचिह्नैः
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये । । ५ । ।

ताम्रोदरद्युतिपराजितपद्मरागौ
बह्यैर्महोभिरभिभूतमहेन्द्रनीलौ ।
उद्यन्नखांशुभिरुदस्तशशाङ्कभासौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये । । ६ । ।

सप्रेमभीति कमलाकरपल्लवाभ्यां
संवाहनेऽपि सपदि क्लममादधानौ ।
कान्ताववाङ्मनसगोचरसौकुमार्यौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये । । ७ । । 

लक्ष्मीमहीतदनुरुपनिजानुभाव
नीलादि दिव्यमहिषी करपल्लवानाम् ।
आरुण्यसंक्रमणतः किल सान्द्ररागौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये । । ८ । । 

नित्यानमद्विधिशिवादिकिरीटकोटि
प्रत्युप्तदीप्तनवरत्नमहःप्ररोहै: ।
नीराजनाविधिमुदारमुपादधानौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये । । ९ । । 

विष्णोः पदे परम इत्युदितप्रशंसौ
यौ मध्व उत्स इति भोग्यतयाप्युपात्तौ ।
भूयस्तथेति तव पाणितलप्रदिष्टौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये । । १० । । 

पार्थाय तत्सदृशसारथिना त्वयैव
यौ दर्शितौ स्वचरणौ शरणं व्रजेति ।
भूयोऽपि मह्यमिह तौ करदर्शितौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये । । ११ । ।

मन्मूर्ध्नि कालियफणे विकटाटवीषु
श्रीवेङ्कटाद्रिशिखरे शिरसि श्रुतीनाम् ।
चित्तेप्यनन्यमनसां सममाहितौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये । । १२ । ।

अम्लानहृष्यदवनीतलकीर्णपुष्पौ
श्रीवेङ्कटाद्रिशिखराभरणायमानौ ।
आनन्दिताखिलमनोनयनौ तवैतौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये । । १३ । ।

प्रायः प्रपन्न जनता प्रथमावगाह्यौ
मातुस्स्तनाविव शिशोरमृतायमानौ ।
प्राप्तौ परस्परतुलामतुलान्तरौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये । । १४ । ।

सत्त्वोत्तरैस्सततसेव्यपदाम्बुजेन
संसार तारक दयार्द्र दृगञ्चलेन ।
सौम्योपयन्तृमुनिना मम दर्शितौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये । । १५ । ।

श्रीश श्रिया घटिकया त्वदुपायभावे
प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या ।
नित्याश्रिताय निरवद्यगुणाय तुभ्यं
स्यां किङ्करो वृषगिरीश न जातु मह्यम् । । १६ । ।

। । इति श्रीवेङ्कटेश प्रपत्तिः । ।


Retyped in UNIC by Vishnudut1926, 
Thanks very much to http://prapatti.com/ 
and the greatest gratitudes to this site Owners,
because the following variant is based 
on Sanskrit version from http://prapatti.com/